हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

   
  Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Balakanda Sarga 48 – बालकाण्ड अष्टचत्वारिंशः सर्गः (४८)


॥ शक्राहल्याशापः ॥

पृष्ट्वा तु कुशलं तत्र परस्परसमागमे ।
कथान्ते सुमतिर्वाक्यं व्याजहार महामुनिम् ॥ १ ॥

इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ ।
गजसिंहगती वीरौ शार्दूलवृषभोपमौ ॥ २ ॥

पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ ।
अश्विनाविव रूपेण समुपस्थितयौवनौ ॥ ३ ॥

यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ ।
कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने ॥ ४ ॥

भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् ।
परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः ॥ ५ ॥

किमर्थं च नरश्रेष्ठौ सम्प्राप्तौ दुर्गमे पथि ।
वरायुधधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः ॥ ६ ॥

तस्य तद्वचनं श्रुत्वा यथावृत्तं न्यवेदयत् ।
सिद्धाश्रमनिवासं च राक्षसानां वधं तथा ॥ ७ ॥

विश्वामित्रवचः श्रुत्वा राजा परमहर्षितः ।
अतिथी परमौ प्राप्तौ पुत्रौ दशरथस्य तौ ॥ ८ ॥

पूजयामास विधिवत्सत्कारार्हौ महाबलौ ।
ततः परमसत्कारं सुमतेः प्राप्य राघवौ ॥ ९ ॥

उष्य तत्र निशामेकां जग्मतुर्मिथिलां ततः ।
तान्दृष्ट्वा मुनयः सर्वे जनकस्य पुरीं शुभाम् ॥ १० ॥

साधु साध्विति शंसन्तो मिथिलां समपूजयन् ।
मिथिलोपवने तत्र आश्रमं दृश्य राघवः ॥ ११ ॥

पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुङ्गवम् ।
श्रीमदाश्रमसङ्काशं किं न्विदं मुनिवर्जितम् ॥ १२ ॥

श्रोतुमिच्छामि भगवन्कस्यायं पूर्व आश्रमः ।
तच्छ्रुत्वा राघवेणोक्तं वाक्यं वाक्यविशारदः ॥ १३ ॥

प्रत्युवाच महातेजा विश्वामित्रो महामुनिः ।
हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव ॥ १४ ॥

यस्यैतदाश्रमपदं शप्तं कोपान्महात्मना ।
गौतमस्य नरश्रेष्ठ पूर्वमासीन्महात्मनः ॥ १५ ॥

आश्रमो दिव्यसङ्काशः सुरैरपि सुपूजितः ।
स चेह तप आतिष्ठदहल्यासहितः पुरा ॥ १६ ॥

वर्षपूगाननेकांश्च राजपुत्र महायशः ।
कदाचिद्दिवसे राम ततो दूरं गते मुनौ ॥ १७ ॥

तस्यान्तरं विदित्वा तु सहस्राक्षः शचीपतिः ।
मुनिवेषधरोऽहल्यामिदं वचनमब्रवीत् ॥ १८ ॥

ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते ।
सङ्गमं त्वहमिच्छामि त्वया सह सुमध्यमे ॥ १९ ॥

मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन ।
मतिं चकार दुर्मेधा देवराजकुतूहलात् ॥ २० ॥

अथाब्रवीत्सुरश्रेष्ठं कृतार्थेनान्तरात्मना ।
कृतार्थास्मि सुरश्रेष्ठ गच्छ शीघ्रमितः प्रभो ॥ २१ ॥

आत्मानं मां च देवेश सर्वदा रक्ष मानद ।
इन्द्रस्तु प्रहसन्वाक्यमहल्यामिदमब्रवीत् ॥ २२ ॥

सुश्रोणि परितुष्टोऽस्मि गमिष्यामि यथागतम् ।
एवं सङ्गम्य तु तया निश्चक्रामोटजात्ततः ॥ २३ ॥

स सम्भ्रमात्त्वरन्राम शङ्कितो गौतमं प्रति ।
गौतमं स ददर्शाथ प्रविशन्तं महामुनिम् ॥ २४ ॥ [तं]

देवदानवदुर्धर्षं तपोबलसमन्वितम् ।
तीर्थोदकपरिक्लिन्नं दीप्यमानमिवानलम् ॥ २५ ॥

गृहीतसमिधं तत्र सकुशं मुनिपुङ्गवम् ।
दृष्ट्वा सुरपतिस्त्रस्तो विवर्णवदनोऽभवत् ॥ २६ ॥

अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः ।
दुर्वृत्तं वृत्तसम्पन्नो रोषाद्वचनमब्रवीत् ॥ २७ ॥

मम रूपं समास्थाय कृतवानसि दुर्मते ।
अकर्तव्यमिदं तस्माद्विफलस्त्वं भविष्यसि ॥ २८ ॥

गौतमेनैवमुक्तस्य सरोषेण महात्मना ।
पेततुर्वृषणौ भूमौ सहस्राक्षस्य तत् क्षणात् ॥ २९ ॥

तथा शप्त्वा स वै शक्रमहल्यामपि शप्तवान् ।
इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि ॥ ३० ॥

वायुभक्षा निराहारा तप्यन्ती भस्मशायिनी ।
अदृश्या सर्वभूतानामाश्रमेऽस्मिन्निवत्स्यसि ॥ ३१ ॥

यदा चैतद्वनं घोरं रामो दशरथात्मजः ।
आगमिष्यति दुर्धर्षस्तदा पूता भविष्यसि ॥ ३२ ॥

तस्यातिथ्येन दुर्वृत्ते लोभमोहविवर्जिता ।
मत्सकाशे मुदा युक्ता स्वं वपुर्धारयिष्यसि ॥ ३३ ॥

एवमुक्त्वा महातेजा गौतमो दुष्टचारिणीम् ।
इममाश्रममुत्सृज्य सिद्धचारणसेविते ।
हिमवच्छिखरे रम्ये तपस्तेपे महातपाः ॥ ३४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टचत्वारिंशः सर्गः ॥ ४८ ॥


www.sanatanadharm.com